User:Prathapa.chandrav

From Wikipedia, the free encyclopedia

शुक्लयजुर्वेदकाण्वशाखापरिचयः ।।

I. उपक्रमः- भारतीयसंस्कृतौ वेदस्यास्ति महती प्रतिष्ठा । विद ज्ञाने इति धातोः करणार्थकघञ्‌प्रत्यययोगे निष्पन्नस्य वेदशब्दस्य "वेद्यन्ते बोध्यन्ते प्रमाणान्तरानधिगताबाधिताः दृष्टादृष्टफलकाः कर्मकलापा अनेनेति करणव्युत्पत्या पूर्वोक्तलक्षणसिद्धेः । अपि च “1अ॒स्य महतो॒ भूत॒स्य नि॒श्वसितमेतद्य॒दृग्वेदो॒ यजुर्वेदः॒ सामवे॒वोऽथर्वाङ्गिर॒स इतिहासः॒पुराणं॒ विद्या॒ उपनिष॒दः श्लो॒काः सू॒त्राण्यनुव्याख्या॒नानि व्याख्या॒नान्य॒स्यै॒वैता॒नि नि॒श्वसितानि” इति शतपथब्राह्मणोक्तदिशा नित्या सर्वा अपि विद्या भगवतः परब्रह्मणः निःश्वासभूताः इति श्रूयन्ते । तेषु विद्यास्थानेषु वेदाः प्राथम्यं वहन्ते । मन्त्रोक्तप्रकारेण वेदाश्चत्वारः । ऋग्यजुःसामाथर्वणेति । चरणव्यूहोक्तप्रकारेण एकाधिकैकशतशाखायुक्तस्य यजुर्वेदस्य शुक्लकृष्णभेदेन द्वैविध्यं वर्तते । तत्राद्याः पञ्चदशशाखाः शुक्लयजुर्वेदसम्बन्धिन्यः, अवशिष्टा कृष्णयजुर्वेदसम्बन्धिन्यः इति ।

१. शुक्लयजुर्वेदाविर्भावः- योगीश्वरो भगवान् याज्ञवल्क्यो हिरण्यगर्भात्मकस्यादित्यस्यानुग्रहाच्छुक्लयजुर्वेदं प्रकाशयामास । शतपथब्राह्मणे- “2आदित्या॒नीमानि शु॒क्लानि य॒जूkषि वाजसनेये॒न या॒ज्ञवल्क्येनाख्याय॒न्ते” इति श्रुतत्वात् । वराहपुराणे वेदाध्ययने संप्रदायद्वयं प्रतिपादितं दृश्यते । एको ब्रह्मसंप्रदायः,परश्चादित्यसंप्रदाय इति । कल्पादौ भगवता श्रीविष्णुना शांखासुरापरनामानं हयग्रीवदैत्यं संहृत्य, तेनापहृतो वेदो ब्रह्मणे प्रददे । ब्रह्मा च तं द्वेधा विभज्यैकं भागं भगवदादित्ये संस्थाप्यान्यं च वसिष्ठांङ्गिरसोमरीच्यत्रिप्रभृतिभ्योऽध्ययनविधिना प्रायच्छत् । तेऽपि स्वपुत्रपौत्रशिष्यप्रशिष्येभ्यः प्रायच्छन् । ततो द्वापरान्ते भगवान् वेदव्यासोऽल्पप्रज्ञानल्पशक्तींश्च लोकाननुजिघृक्षुः सन् वेदमेकमृगादिरूपेण चतुर्धा विभज्य, क्रमात्पैलवैशंपायनजैमिनिसुमन्तूनध्यापयामास । तैश्च शाखाप्रभेदादिना परम्परया विस्तारं नीता वेदाः । सैषा वेदचतुष्टयी ब्रह्मसंप्रदाय इति प्रसिद्धिं प्राप । योगीश्वरो भगवान् याज्ञवल्क्योऽपि ब्रह्मपरम्परायामस्यामेव वर्तमानः सन् महर्षेर्विदग्धशाकल्यादृग्वेदमध्यगीष्ट । केनापि कारणेन ततोऽधीतं वेदं तत्याज । ततोऽयं महर्षि वैशम्पायनमुपेत्य यजुर्वेदमधीतवान् । दैवदुर्विलासादत्रापि गुरुणा सह विवादे संवृत्ते तदधीतं वेदं त्यक्तवान् । ततोऽयं मानुषरूपं गुरुं नोपैमीति निश्चयपूर्वकं चतुर्विंशलक्षसंख्याकगायत्रीमन्त्रपुरश्चरणादि-तपस्यया सुदृढया भगवन्तं त्रयीमयमादित्यं तोषयित्वा तस्माच्चतुरो वेदानधीतवान् । गुर्वनुज्ञया तान् शाखाप्रशाखाभेदेन विस्तारमनीनयत् । सैषा वेदचतुष्टयी आदित्यसम्प्रदाय इति प्रथामापेदे । तदुक्तम् । ब्रह्मणः संप्रदायोऽयं व्याससन्दर्शितोऽभवत् । विभक्तस्यैव वेदस्य संप्रदायो द्विधा मतः । ब्रह्मणः संप्रदायस्तु आदित्यस्य तथा मतः । अयातयामसंज्ञोऽयं कृत्स्नकर्मप्रकाशकः । ब्रह्मणः संप्रदायस्तु मिश्रत्वान्न तथा मतः ॥ इति ॥ न केवलं यजूंष्येव याज्ञवल्क्येन रवेः समधिगतानि, अपि तु चत्वारोऽपि वेदाः समधिगताः । तदुक्तं स्कान्दे- स तथेति प्रतिज्ञाय प्रविश्यादित्यवाजिनः । कर्णेऽपठत्ततो वेदान् चतुरोऽपि च तन्मुखात् ॥ इति ॥ आत्मपुराणे च- इत्युक्तो भगवान् सूर्यो याज्ञवल्क्यं महामुनिम् । वेदान् षडङ्गसहितान् रहस्यादिसमन्वितान् । चतुरोऽध्यापयामास स्थापयित्वा निजे रथे ॥ इति ॥ श्रीमच्छङ्करभगवत्पादाश्च- “अर्थाच्चतुर्वेदो याज्ञवल्क्यः” इति वर्णयन्ति ।

२. शुक्लकृष्णत्वे कारणानि-- आदित्यसंप्रदायः शुक्लः ब्रह्मसंप्रदायः कृष्ण इत्यभिधीयते । मन्त्रब्राह्मणयोः पार्थक्येनाभिधानं शुक्लत्वहेतुः । तयोर्व्यामिश्रत्वं कृष्णत्वहेतुः । तदुक्तं काण्वसंहिताभाष्योपक्रमे सायणाचार्यैः- प्रवर्तितः खण्डशस्तैर्न सम्यग्बुध्यते नृभिः । आध्वर्यवं क्वचिद्धौत्रं क्वचिदित्यवस्थया । बुद्धिमालिन्यहेतुत्वाद्यजुः कृष्णमितीरितम् । याज्ञवल्क्यस्ततः सूर्यमाराध्यास्मादधीतवान् । व्यवस्थितप्रकरणं यजुः शुक्लं तदीर्यते । पौराणिकीं कथामेतां वेदव्याख्यान आदरात् ॥ इति ॥ चरणव्यूहभाष्यकारैस्तु अन्यत्कारणमुक्तम्- तद्यथा “एतत्सखिलं सशुक्रियं (ऋचं वाचमिति षट्‌त्रिंशदध्यायोक्तचतुर्विंशतिऋगात्मकसहितम्) मध्याह्ने शुक्लवर्णेन सूर्येण दत्तं तच्छुक्लं यजुः परिसंख्यातम्” इति । वेदोपाकरणे चतुर्दशीयुक्तपौर्णमासीग्रहणात् शुक्लं यजुः,तैत्तरीयकैर्वेदोपाकरणे औदयिकपर्वग्रहणात् (अर्थात्कृष्णप्रतिपद्विद्धपौर्णमासीग्रहणात्) कृष्णं यजुरिति च तत्रैवोक्तम् । आत्मपुराणे च वान्त्या च भक्षणेनापि कृष्णान्यासन्यजूkष्यपि इति कारणान्तरमुक्तम् । देवीभागवते तु यातयामत्वायातयामत्वे यजुषां कृष्णत्वशुक्लत्वयोर्हेतुत्वमुक्तम् । अयातयामानि तु भानुगुप्तानि अन्यानि जातानि तु नीरसानि । यजूंषि तेषामथ याज्ञवल्क्यो ह्ययातयामानि रवेरवाप ॥ इति ॥ येन केनापि हेतुना यजुर्वेदः शुक्लः कृष्ण इति द्वैविध्यं समजनि ।

३. शाखाभेदाः- यजुर्वेदस्य शाखा एकाधिकैकशतमिति महाभाष्यमुक्तिकोपनिषच्चरणव्यूहादि ग्रन्थेभ्योऽवगम्यते । तत्र शुक्लस्य यजुषः पञ्चदश शाखा स्मृताः कृष्णस्य यजुषः षडशीतिः शाखा उदाहृताः । शाखानाम वेदैकदेशः । चरणव्यूहे शुक्लयजुः शाखानां पञ्चदशानामपि नामानि निर्दिष्टानि । तानि यथा- १) काण्वाः, २) माध्यन्दिनाः, ३) शापेयाः, ४) तापनीयाः, ५) कपोलाः, ६) पौण्ड्रवत्साः, ७) आवटिकाः, ८) परमावटिकाः, ९) पाराशर्याः, १०) वैनधेयाः, ११) बौधेयाः, १२) औधेयाः, १३) गालवाः, १४) बैजवापाः, १५) जाबालाः, इति । एतासु पञ्चदशशाखासु इदानीं काण्वीया माध्यन्दिनीया चेति द्वे शाखे उपलभ्येते । अन्यास्त्रयोदशशाखास्त्वध्ययनतो ग्रन्थतश्च विलुप्ताः । शुक्लयजुषः पञ्चदशशाखासु काण्वमाध्यन्दिनशाखाद्वयं प्रधानतमं भवति । अवशिष्टासु त्रयोदशसु काश्चन शाखाः काण्वानुगाः काश्चन माध्यन्दिनशाखानुगाः ।

४. काण्वशाखामन्त्रभागपरिचयः- शुक्लयजुर्वेदस्य संहितापदवाच्यो मन्त्रभागः पार्थक्येन ब्राह्मणभागाद्भिद्यते । स च काण्वे चत्वारिंशदध्यायात्मकः । तत्र संहितायां प्रत्यध्यायं प्रतिपाद्यविषया प्रदर्श्यन्ते ।

   अध्यायसंख्या						विषयः । 

१--२ दर्शपूर्णमासौ । ३ अन्वाधानाग्निहोत्राग्न्युपस्थानचातुर्मास्यानि । ४--९ अग्निष्टोमः । १० वाजपेयः । ११ राजसूयः । १२--२० अग्निचयनम् । २१--२३ सौत्रामणी । २४--२७ अश्वमेधः । २८--३३ तत्र तत्र विप्रकीर्णा लिंगविनियोज्या अनारभ्याधीता मन्त्राः । ३४--३५ पुरुषमेधः । ३६--३९ प्रवर्ग्यः । ४० ब्रह्मविद्या ।

५. काण्वशतपथब्राह्मणे विषयक्रमनिरूपणम् - काण्वशतपथे सप्तदश काण्डानि सन्ति । तेषां नामानि - १. एकपात्काण्डम्, २. हविर्यज्ञकाण्डम्, ३. उद्धारिकाण्डम्, ४. अध्वरकाण्डम्, ५. ग्रहकाण्डम्, ६. वाजपेयकाण्डम्, ७. राजसूयकाण्डम्, ८. उखासंभरणकाण्डम्, ९. हस्तिघटकाण्डम्, १०. चितिकाण्डम्, ११. साग्निचितिकाण्डम्, १२. अग्निरहस्यकाण्डम्, १३. अष्टाध्यायीकाण्डम्, १४. मध्यमकाण्डम्, १५. अश्वमेधकाण्डम्, १६. प्रवर्ग्यकाण्डम्, १७. बृहदारण्यकोपनिषत्काण्डम् । इति । ६. काण्वशतपथब्राह्मणे सप्तदशकाण्डेषु निरूपिता विषयाः - १. आधानपुनराधाने, अग्निहोत्रम्, आग्रयणम्, पिण्डपितृयज्ञः, दाक्षायणयज्ञः, उपस्थानादि, चातुर्मास्ययागः । २. दर्शपूर्णमासेष्टिः । ३. अग्निहोत्रसंबन्धी अर्थवादः, दर्शपूर्णमासीयोऽर्थवादश्च । ४. सोमयागदीक्षा अभिषवादिकर्म च । ५. सोमयागः, सवनत्रयगतं कर्म, षोडशीप्रभृति सोमसंस्थाः, द्वादशाह्वयागः त्रिरात्राहीनदक्षिणा, चतुस्त्रिkशद्धोमः, सत्रधर्माश्च । ६. वाजपेययागः सपरिकरः । ७. राजसूययागः सपरिकरः । ८. उखासंभरणम् । ९-१२.चयनक्रतुः ।

	१३.	आधानकालः, पथिकृदिष्टिः, प्रयाजानुमन्त्रणम्, शंयुवाकः, पत्नीसंयाजः, 		

ब्रह्मचर्यम्, दर्शपूर्णमासविशेषः, पशुबन्धश्च । १४. दीक्षाक्रमः, पृष्ठभिप्लवादिसौत्रामणीयागः, अग्निहोत्रप्रायश्चित्तम्, मृतकाग्निहोत्रम्, । १५. अश्वमेधः । १६. साङ्गोपाङ्गप्रवर्ग्य कर्म । १७. ब्रह्मविद्या । एवं काण्वशाखायाः संहिताब्राह्मणयोः विषयनिरूपणं दृश्यते ।