Jump to content

User:Reddyvari Deena Sabitha

From Wikipedia, the free encyclopedia

खगोलशास्त्र

[edit]

ज्योतींषे अत्यायत श्रेणिका चरित्र च प्रकाशक भाविष्यत्। ज्योतींषि ग्रहनक्षत्राणि अधिकृत्य प्रवर्तितं यच्छास्त्रं तन्नाम ज्योतिषमिति कथ्यते। इदं तु प्रत्यक्षं शास्त्रम् अस्ति। यतोहि अन्येषु शास्त्रेषु यथा विवादा: सन्ति तथा अत्र न सन्ति। सूर्यचन्द्रबुधशुक्रादिग्रहाणां गतिस्थित्यादीनां वर्णनम् अत्र भवति। एतेषां ग्रहाणां प्रत्यक्षदर्शनम् अस्माभि: क्रियते अत: शास्त्रमिदं प्रत्यक्षम् अस्ति इति सिध्यति। एतदतिरिक्ता अपि – लघुपाराशरी, बृहत्पाराशरी, जैमिनिसूत्रम्, भृगुसंहिता, मीनराजजातकप्रभृतय आर्षग्रन्थाः, लघुजातकम्, बृहज्जातकम्, सारावलिः, जातकाभरणम् जातकपध्दतिः , जातकसारः, जातकालङ्कारः, पदमजातकम्, होरारत्नम्, होराकौस्तुभम् इत्यादयः पुरुषप्रणीतग्रन्थाश्च शास्त्रमिदं समृध्दं कुर्वन्ति । केरलमतप्रतिपादका ग्रन्थाः, प्रश्नग्रन्थान्तराणि, रमलग्रन्थाः ताजिकग्रन्थाश्च अस्य शास्त्रस्य पोषका एव ।

असंख्याः ग्रहाः सन्ति, अन्यसौरमण्डलानि अपि भवितुम् अर्हन्ति इत्यादयः विचाराः भारतीये ज्योतिश्शास्त्रे रुढमूलाः सन्ति। ग्रहाणां स्थितिः, परस्पराकर्षणं, ग्रहणस्वरूपम् इत्यादयः अत्र विस्तरेण उक्ताः। कुजग्रहस्यस्वरूपं "चपलः सरक्तगौरः मज्जासारश्च माहेयः" इत्येवम् उक्तवान् अस्ति आचार्यः वराहमिहिरः। आधुनिकशास्त्रकाराः वदन्ति - "कुजस्य उपरि उग्रतुषारावरणम् अस्ति इत्यतः रक्तवर्णयुक्तधवलवर्णः तत्र दृश्यते" इति कुजः (भूमिपुत्रः) इति शब्दः एव तदग्रहे जीवसम्भाव्यतां प्रकाशयति। आधुनिकाः अपि एतत् एव वदन्ति खलु "सूर्यादीनां सञ्चातः भ्रममूलः", "ग्रहाणां स्वप्रकाशता नास्ति" इत्यादयः बहवः वैज्ञानिकाः अंशाः आर्यभटेन प्रतिपादिताः।